Prashna
अथ हैनं सैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तम् ओङ्कारम् अभिध्यायीत् । कतमं वाव स तेन लोकं जयतीति । तस्मै स होवाच ॥१॥
अथ । ह । एनम् । सैब्यः । सत्यकामः । पप्रच्छ । सः । यः । ह । वै । तत् । भगवन् । मनुष्येषु । प्रायण-अन्तम् । ओङ्कारम् । अभिध्यायीत् । कतमम् । वाव । सः । तेन । लोकम् । जयति । इति । तस्मै । सः । ह । उवाच ॥१॥
atha ha enaṃ saibyaḥ satyakāmaḥ papraccha | sa yo ha vai tad bhagavan manuṣyeṣu prāyaṇāntam oṅkāram abhidhyāyīt | katamaṃ vāva sa tena lokaṃ jayatīti | tasmai sa hovāca ||1||
પછી સૈબ્ય શિબીપુત્ર સત્યકામે તેમને પૂછ્યું: ‘ભગવન્, મનુષ્યોમાં જે જીવનના અંત સુધી ઓંકારનું ધ્યાન કરે છે, તે તેના દ્વારા કયો લોક વિજય કરે છે?’ ત્યારે તેમણે તેને ઉત્તર આપ્યો ॥૧॥
Then Satyakāma, the son of Sibi (Saibya), asked him: ‘Venerable sir, among men, he who meditates on the syllable Oṃ up to the end of life—what world, indeed, does he conquer by that?’ To him he replied.