Mandukya
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥५॥
यत्र । सुप्तः । न । कञ्चन । कामम् । कामयते । न । कञ्चन । स्वप्नम् । पश्यति । तत् । सुषुप्तम् । सुषुप्त-स्थानः । एकी-भूतः । प्रज्ञान-घनः । एव । आनन्द-मयः । हि । आनन्द-भुक् । चेतः-मुखः । प्राज्ञः । तृतीयः । पादः ॥५॥
yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati tat suṣuptam | suṣuptasthāna ekībhūtaḥ prajñānaghana evānandamayo hyānandabhuk cetomukhaḥ prājñas tṛtīyaḥ pādaḥ ||5||
જ્યાં સુતેલો મનુષ્ય કોઈ પણ કામનાને ઇચ્છતો નથી અને કોઈ પણ સ્વપ્ન જોતો નથી, તે સુષુપ્તિ છે. સુષુપ્તિસ્થાનમાં એકીભૂત, પ્રજ્ઞાનઘન, આનંદમય, આનંદનો ભોક્તા અને ચેતસ (મન) જેણે મુખ છે—પ્રાજ્ઞ એ ત્રીજો પાદ છે.
That is deep sleep (suṣupta) wherein, having fallen asleep, one does not desire any desire whatsoever and does not see any dream whatsoever. The third quarter is Prājña, whose sphere is deep sleep, who is unified, a mass of consciousness, indeed made of bliss, an enjoyer of bliss, and whose ‘mouth’ is mind (cetas).