HomeUpanishadsGanapatiVerse 18
Previous Verse

Verse 18

Ganapati

सहस्रावर्तनाद्यं यं काममधीते । तं तमनेन साधयेत् । अनेन गणपतिमभिषिञ्चति । स वाग्मी भवति । चतुर्थ्यामनश्नन् जपति । स विद्यावान् भवति । इत्यथर्वणवाक्यम् । ब्रह्माद्याचरणं विद्यान्न बिभेति कदाचनेति ।

यो दूर्वाङ्कुरैर्यजति । स वैश्रवणोपमो भवति । यो लाजैर्यजति । स यशोवान् भवति । स मेधावान् भवति । यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति । यः साज्यसमिद्भिर्यजति । स सर्वं लभते स सर्वं लभते ।

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा । सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा । सिद्धमन्त्रो भवति । महाविघ्नात् प्रमुच्यते । महादोषात् प्रमुच्यते । महापापात् प्रमुच्यते । महाप्रत्यवायात् प्रमुच्यते । स सर्वविद्भवति स सर्वविद्भवति । य एवं वेद । इत्युपनिषत् ॥१८॥

सहस्र-आवर्तनात् । यम् यम् कामम् अधीते । तम् तम् अनेन साधयेत् । अनेन गणपतिम् अभिषिञ्चति । सः वाग्मी भवति । चतुर्थ्याम् अनश्नन् जपति । सः विद्यावान् भवति । इति अथर्वण-वाक्यम् । ब्रह्म-आद्य-आचरणम् विद्यात् । न बिभेति कदाचन इति ।

यः दूर्वा-अङ्कुरैः यजति । सः वैश्रवण-उपमः भवति । यः लाजैः यजति । सः यशोवान् भवति । सः मेधावान् भवति । यः मोदक-सहस्रेण यजति । सः वाञ्छित-फलम् अवाप्नोति । यः स-आज्य-समिद्भिः यजति । सः सर्वम् लभते । सः सर्वम् लभते ।

अष्टौ ब्राह्मणान् सम्यक् ग्राहयित्वा । सूर्य-वर्चस्वी भवति । सूर्य-ग्रहे महा-नद्याम् प्रतिमा-सन्निधौ वा जप्त्वा । सिद्ध-मन्त्रः भवति । महा-विघ्नात् प्रमुच्यते । महा-दोषात् प्रमुच्यते । महा-पापात् प्रमुच्यते । महा-प्रत्यवायात् प्रमुच्यते । सः सर्व-वित् भवति । सः सर्व-वित् भवति । यः एवम् वेद । इति उपनिषत् ।

sahasrāvartanād yaṃ yaṃ kāmam adhīte | taṃ tam anena sādhayet | anena gaṇapatim abhiṣiñcati | sa vāgmī bhavati | caturthyām anaśnan japati | sa vidyāvān bhavati | ity atharvaṇavākyam | brahmādyācaraṇaṃ vidyān na bibheti kadācaneti |

yo dūrvāṅkurair yajati | sa vaiśravaṇopamo bhavati | yo lājair yajati | sa yaśovān bhavati | sa medhāvān bhavati | yo modakasahasreṇa yajati sa vāñchitaphalam avāpnoti | yaḥ sājya-samidbhir yajati | sa sarvaṃ labhate sa sarvaṃ labhate |

aṣṭau brāhmaṇān samyag grāhayitvā | sūryavarcassvī bhavati | sūryagrahe mahānadyāṃ pratimāsannidhau vā japtvā | siddhamantro bhavati | mahāvighnāt pramucyate | mahādoṣāt pramucyate | mahāpāpāt pramucyate | mahāpratyavāyāt pramucyate | sa sarvavid bhavati sa sarvavid bhavati | ya evaṃ veda | ity upaniṣat ||18||

હજાર આવર્તનથી જે કામના માટે કોઈ આનું અધ્યયન કરે, તે કામના આ જ ઉપાયથી સિદ્ધ કરવી. આ મંત્રથી ગણપતિનો અભિષેક થાય છે; સાધક વાક્પટુ બને છે. ચતુર્થીએ ઉપવાસ રાખીને જપ કરનાર વિદ્યાવાન બને છે—આ અથર્વણનું વચન છે. બ્રહ્માથી આરંભ થતી આચારપરંપરા જાણનાર કદી ભય પામતો નથી. જે દુર્વાંકુરોથી યજન કરે, તે વૈશ્રવણ (કુબેર) સમાન બને છે. જે લાજા (ભૂંજેલા ધાન)થી યજન કરે, તે યશસ્વી અને મેધાવી બને છે. જે હજાર મોદકોથી યજન કરે, તે ઇચ્છિત ફળ પામે છે. જે ઘી અને સમિધાઓથી યજન કરે, તે સર્વ પ્રાપ્ત કરે છે—સર્વ પ્રાપ્ત કરે છે. આઠ બ્રાહ્મણોને યોગ્ય રીતે તૃપ્ત કરીને તે સૂર્યવર્ચસ્વી બને છે. સૂર્યગ્રહણ સમયે મહાનદીમાં અથવા પ્રતિમાની સન્નિધિમાં જપ કરીને તેનો મંત્ર સિદ્ધ થાય છે. તે મહાવિઘ્ન, મહાદોષ, મહાપાપ અને મહાપ્રત્યવાયથી મુક્ત થાય છે. જે આ રીતે જાણે છે, તે સર્વવિદ બને છે—સર્વવિદ બને છે. ઇતિ ઉપનિષત્.

By a thousand repetitions, whatever desire one studies (this for), that (desire) one should accomplish by this. With this one performs the consecration (abhiṣeka) of Gaṇapati; he becomes eloquent. On the fourth lunar day, reciting while fasting, he becomes possessed of knowledge—so is the statement of Atharvan. Knowing the conduct beginning with Brahmā, he is never afraid. He who worships with dūrvā sprouts becomes like Vaiśravaṇa (Kubera). He who worships with parched grains becomes renowned; he becomes intelligent. He who worships with a thousand modakas obtains the desired fruit. He who worships with ghee and fuel-sticks obtains everything—obtains everything. Having properly satisfied eight brāhmaṇas, he becomes radiant like the sun. Having recited at a solar eclipse in a great river or near an image, he becomes one whose mantra is perfected. He is freed from great obstacles, freed from great faults, freed from great sins, freed from great ritual demerit. He becomes all-knowing—becomes all-knowing—who thus knows. Thus (ends) the Upaniṣad.

Upāsanā and mantra-siddhi as preparatory means; vighna-nivṛtti; citta-śuddhi; movement from kāmya results toward jñānaMahavakya: Indirect: ritual/mantra discipline is presented as a means to purification and steadiness that can culminate in mahāvākya-based realization; “sarvavid” is not a mahāvākya but echoes Upaniṣadic ideal of knowledge.AtharvaAtharvaveda (Atharvaśīrṣa tradition; commonly transmitted in Śaunaka-associated Atharvanic corpus) ShakhaChandas: Prose (gadya)