होता॑ यक्षत्समिधा॒नं म॒हद्यश॒: सुस॑मिद्धं॒ वरे॑ण्यम॒ग्निमिन्द्रं॑ वयो॒धस॑म् । गा॒य॒त्रीं छन्द॑ इन्द्रि॒यं त्र्यविं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑
hotā́ yakṣat samidhānám mahád yáśaḥ susamiddháṃ váreṇyam agním índraṃ vayodhásam | gāyatrī́ṃ chánda indríyaṃ tryavím gā́ṃ váyo dádhad vetvā́jyasya hotár yája
હોતૃ મહાન યશવાળા, સમિધા વડે પ્રજ્વલિત, સુસંસિદ્ધ, વરેણ્ય—અગ્નિ-ઇન્દ્ર, વયોધસ (બળ આપનાર)ને યજન કરે. ગાયત્રી છંદ—ઇન્દ્રિય (ઇન્દ્રની શક્તિ), ત્ર્યવિ (ત્રિગુણ)—વય (બળ) ધારણ કરતું, ઘૃત સાથે, હોતૃ, યજ્ઞમાં સફળતા લાવે—યજ!
होता॑ । यक्षत् । समि॒धा॒नम् । म॒हत् । यशः॑ । सु॒-समि॑द्धम् । वरे॑ण्यम् । अ॒ग्निम् । इन्द्र॑म् । वयः॑-धस॑म् । गा॒य॒त्रीम् । छन्दः॑ । इन्द्रि॒यम् । त्र्य॒विम् । गाम् । वयः॑ । दधत् । वेतु॑ । आज्य॑स्य । होत॒रि । यज॑