वातं॑ प्रा॒णेना॑पा॒नेन॒ नासि॑के उपया॒ममध॑रे॒णौष्ठे॑न॒ सदुत्त॑रेण प्रका॒शेनान्त॑रमनूका॒शेन॒ बाह्यं॑ निवे॒ष्यं मू॒र्ध्ना स्त॑नयि॒त्नुं नि॑र्बा॒धेना॒शनिं॑ म॒स्तिष्के॑ण वि॒द्युतं॑ क॒नीन॑काभ्यां॒ कर्णा॑भ्या॒ᳪ श्रोत्रँ॒ श्रोत्रा॑भ्यां॒ कर्णौ॑ तेद॒नीम॑धरक॒ण्ठेना॒पः शु॑ष्कक॒ण्ठेन॑ चि॒त्तं मन्या॑भि॒रदि॑तिᳪ शी॒र्ष्णा निरृ॑तिं॒ निर्ज॑र्जल्येन शी॒र्ष्णा सं॑क्रोशैः प्रा॒णान् रेष्माण॑ᳪ स्तु॒पेन॑
vā́taṃ prāṇéna apānéna nā́sike upayā́mam adharéṇauṣṭhéna sád uttaréṇa prakāśénā́ntaram anūkāśéna bā́hyaṃ niveśyáṃ mūrdhnā́ stanayitnúṃ nirbādhénāśániṃ mastíṣkeṇa vidyútam kanī́nakābhyāṃ karṇā́bhyāṃ śrótraṃ śrotrā́bhyāṃ karṇáu te adānī́m adharakaṇṭhéna ā́paḥ śuṣkakaṇṭhéna cittáṃ manyā́bhir áditiṃ śī́rṣṇā nírṛtiṃ nirjárjalyena śī́rṣṇā saṃkróśaiḥ prāṇā́n réṣmāṇaṃ stupéna
પ્રાણથી વાયુને (નિયુક્ત કરું છું); અપાનથી નાસિકાઓને; અધર ઓઠથી ઉપયામ (ગ્રહણ)ને; ઉપરના ઓઠથી સદ્ (સત્તા/અસ્તિત્વ)ને; પ્રકાશથી આંતરિકને; અનુકાશ (પશ્ચાત્-પ્રકાશ)થી બાહ્યને; મસ્તકથી સ્તનયિત્નુ (ગર્જના)ને; નિર્બાધ (ચૂર્ણકર્તા બળ)થી અશનિ (વજ્ર)ને; મસ્તિષ્કથી વિદ્યુતને; આંખોના કનીનિકા દ્વારા; કાનોથી શ્રોત્રને; શ્રોત્રોથી કાનને; અધરકંઠથી આપઃ (જળ)ને; શુષ્કકંઠથી ચિત્તને; મન્યાઓથી અદિતિને; શીર્ષથી નિરૃતિને; નિર્જર્જલ્ય (ક્ષયકર્તા)થી શીર્ષ દ્વારા; સંક્રોશોથી પ્રાણોને; રેષ્માણં સ્તુપેન (સ્તૂપ દ્વારા) ।
वातम् । प्राणेन । अपानेन । नासिके । उपयामम् । अधरेण । ओष्ठेन । सत् । उत्तरेण । प्रकाशेन । अन्तरम् । अनूकाशेन । बाह्यम् । निवेश्यम् । मूर्ध्ना । स्तनयित्नुम् । निर्बाधेन । अशानिम् । मस्तिष्केण । विद्युतम् । कनीनकाभ्याम् । कर्णाभ्याम् । श्रोत्रम् । श्रोत्राभ्याम् । कर्णौ । ते । अदानीम् । अधर-कण्ठेन । अपः । शुष्क-कण्ठेन । चित्तम् । मन्याभिः । अदितिम् । शीर्ष्णा । निरृतिम् । निर्जर्जल्येन । शीर्ष्णा । संक्रोशैः । प्राणान् । रेष्माणम् । स्तुपेन