मू॒र्धा वय॑: प्र॒जाप॑ति॒श्छन्द॑: क्ष॒त्रं वयो॒ मय॑न्दं॒ छन्दो॑ विष्ट॒म्भो वयोऽधि॑पति॒श्छन्दो॑ वि॒श्वक॑र्मा॒ वय॑: परमे॒ष्ठी छन्दो॑ ब॒स्तो वयो॑ विव॒लं छन्दो॒ वृष्णि॒र्वयो॑ विशा॒लं छन्द॒: पुरु॑षो॒ वय॑स्त॒न्द्रं छन्दो॑ व्या॒घ्रो वयोऽना॑धृष्टं॒ छन्द॑: सि॒ᳪहो वय॑श्छ॒दिश्छन्द॑: पष्ठ॒वाड्वयो॑ बृह॒ती छन्द॑ उ॒क्षा वय॑: क॒कुप् छन्द॑ ऋष॒भो वय॑: स॒तोबृ॑हती॒ छन्द॑:
mū́rdhā váyaḥ prajā́patiś chándaḥ | kṣatráṃ váyo máyandaṃ chándo viṣṭámbho váyo 'dhipátiś chándo viśvákarmā váyaḥ parameṣṭhī́ chándo | básto váyo vivaláṃ chándo vṛ́ṣṇir váyo viśāláṃ chándaḥ | púruṣo váyas tándraṃ chándo vyā́ghro váyo 'nādhṛṣṭaṃ chándaḥ | síṃho váyaś chadíś chándaḥ | paṣṭhavā́ḍ váyo bṛhatī́ chándaḥ | ukṣā́ váyaḥ kakúp chándaḥ | ṛṣabhó váyaḥ satóbṛhatī́ chándaḥ
મૂર્ધા (શિર) વયઃ—પ્રજાપતિ છંદ છે. ક્ષત્ર (રાજશક્તિ) વયઃ—મયન્દ છંદ છે. વિષ્ટંભ (આધાર) વયઃ—અધિપતિ છંદ છે. વિશ્વકર્મા વયઃ—પરમેષ્ઠી છંદ છે. બસ્ત (બકરો) વયઃ—વિવલમ છંદ છે. વૃષણ (વૃષભ) વયઃ—વિશાલ છંદ છે. પુરુષ વયઃ—તન્દ્રા (આળસ) છંદ છે. વ્યાઘ્ર વયઃ—અનાધૃષ્ટ (અજેય) છંદ છે. સિંહ વયઃ—છદિ છંદ છે. પષ્ઠવાડ્ વયઃ—બૃહતી છંદ છે. ઉક્ષા વયઃ—કકુપ્ છંદ છે. ઋષભ વયઃ—સતોબૃહતી છંદ છે.
मू॒र्धा । वयः॑ । प्र॒जाप॑तिः । छन्दः॑ । क्ष॒त्रम् । वयः॑ । मय॑न्दम् । छन्दः॑ । वि॒ष्ट॒म्भः । वयः॑ । अधि॑पतिः । छन्दः॑ । वि॒श्वक॑र्मा । वयः॑ । परमे॒ष्ठी । छन्दः॑ । ब॒स्तः । वयः॑ । वि॒व॒लम् । छन्दः॑ । वृष्णिः॑ । वयः॑ । वि॒शा॒लम् । छन्दः॑ । पुरु॑षः । वयः॑ । त॒न्द्रम् । छन्दः॑ । व्या॒घ्रः । वयः॑ । अना॑धृष्टम् । छन्दः॑ । सि॒ᳪहः । वयः॑ । छ॒दिः । छन्दः॑ । पष्ठ॒वाट् । वयः॑ । बृह॒ती । छन्दः॑ । उ॒क्षाः । वयः॑ । क॒कुप् । छन्दः॑ । ऋष॒भः । वयः॑ । स॒तोबृ॑हती । छन्दः॑