Sukta 5.58
तमु नूनं तविषीमन्तमेषां स्तुषे गणं मारुतं नव्यसीनाम् । य आश्वश्वा अमवद्वहन्त उतेशिरे अमृतस्य स्वराजः ॥
तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम् । य आ॒श्व॑श्वा॒ अम॑व॒द्वह॑न्त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राज॑: ॥
tám u nūnáṁ távīṣīmantam eṣā́ṁ stuṣé gaṇáṁ mārutáṁ návyasīnām | yá āśváśvā́ amávad váhanta utéśire amṛ́tasya svárājaḥ ||
હવે હું તેમના તે મરુત-ગણનું સ્તવન કરું છું—બળથી ભરપૂર, કર્મમાં સદા નવતર. જે ઝડપી અશ્વો પર આત્મબળને વહન કરે છે, અને અમૃત (અજર-અમર) સત્તામાં સ્વરાજ (સ્વયં-રાજા) રૂપે પણ શાસન કરે છે.
तम् । ऊँ॒ इति॑ । नू॒नम् । तवि॑षीऽमन्तम् । ए॒षा॒म् । स्तु॒षे । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् । ये । आ॒शुऽअ॑श्वाः । अम॑ऽवत् । वह॑न्ते । उ॒त । ई॒शि॒रे॒ । अ॒मृत॑स्य । स्व॒ऽराजः॑ ॥तम् । ऊँ इति । नूनम् । तविषीमन्तम् । एषाम् । स्तुषे । गणम् । मारुतम् । नव्यसीनाम् । ये । आशुअश्वाः । अमवत् । वहन्ते । उत । ईशिरे । अमृतस्य । स्वराजः ॥tam | oṃ iti | nūnam | taviṣī-mantam | eṣām | stuṣe | gaṇam | mārutam | navyasīnām | ye | āśu-aśvāḥ | ama-vat | vahante | uta | īśire | amṛtasya | sva-rājaḥ