Sukta 3.50
गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं ज्यैष्ठ्याय धायसे गृणानाः । मन्दानः सोमं पपिवाँ ऋजीषिन्त्समस्मभ्यं पुरुधा गा इषण्य ॥
गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः । म॒न्दा॒नः सोमं॑ पपि॒वाँ ऋ॑जीषि॒न्त्सम॒स्मभ्यं॑ पुरु॒धा गा इ॑षण्य ॥
góbhir mimikṣúṃ dadhire supā́ram índraṃ jyáiṣṭhyāya dhā́yase gṛṇānā́ḥ | mandānó sómaṃ papivā́ṃ ṛjīṣin sám asmábhyaṃ purudhā́ gā́ iṣaṇya ||
ગો (પ્રકાશ-કિરણો) દ્વારા તેમણે સુપાર (સુગમ માર્ગવાળા) ઇન્દ્રને પરમ અધિપત્ય માટે સ્થાપિત કર્યો, સ્તુતિથી તેને સ્થિર થવા માટે ગાતા. હે ઋજીષિન્ (તામ્રબળના ધારક)! સોમ પીને આનંદિત થઈ, અમારે માટે પુરુધા—ઘણા ગો, અનેક પ્રકાશ-કિરણો—સમૃદ્ધિથી એકત્ર કર.
गोभिः॑ । मि॒मि॒क्षुम् । द॒धि॒रे॒ । सु॒ऽपा॒रम् । इन्द्र॑म् । ज्यैष्ठ्या॑य । धाय॑से । गृ॒णा॒नाः । म॒न्दा॒नः । सोम॑म् । प॒पि॒ऽवान् । ऋ॒जी॒षि॒न् । सम् । अ॒स्मभ्य॑म् । पु॒रु॒धा । गाः । इ॒ष॒ण्य॒ ॥गोभिः । मिमिक्षुम् । दधिरे । सुपारम् । इन्द्रम् । ज्यैष्ठ्याय । धायसे । गृणानाः । मन्दानः । सोमम् । पपिवान् । ऋजीषिन् । सम् । अस्मभ्यम् । पुरुधा । गाः । इषण्य ॥gobhiḥ | mimikṣum | dadhire | su-pāram | indram | jyaiṣṭhyāya | dhāyase | gṛṇānāḥ | mandānaḥ | somam | papi-vān | ṛjīṣin | sam | asmabhyam | purudhā | gāḥ | iṣaṇya