Sukta 10.58
यत्ते अपो यदोषधीर्मनो जगाम दूरकम् । तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
यत्ते॑ अ॒पो यदोष॑धी॒र्मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
yát te apó yád oṣádhīr máno jagā́ma dūrákam | tát te ā́ vartayāmasīhá kṣáyāya jīváse ||
હે (તને), તારો મન જે કંઈ દૂર સુધી અપઃ (જળો)માં અને ઓષધીઃ (ઔષધિઓ/વનસ્પતિઓ)માં ચાલ્યો ગયો છે, તે બધું અમે અહીં તારી પાસે પાછું ફેરવીએ છીએ—તારા ક્ષય (સ્થિર નિવાસ) અને તારા જીવસે (જીવન) માટે।
यत् । ते॒ । अ॒पः । यत् । ओष॑धीः । मनः॑ । ज॒गाम॑ । दूर॒कम् । तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥यत् । ते । अपः । यत् । ओषधीः । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥yat | te | apaḥ | yat | oṣadhīḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmas i | iha | kṣayāya | jīvase