Sukta 10.180
प्र ससाहिषे पुरुहूत शत्रूञ्ज्येष्ठस्ते शुष्म इह रातिरस्तु । इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनामसि रेवतीनाम् ॥
प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पति॒: सिन्धू॑नामसि रे॒वती॑नाम् ॥
prá sasāhiṣe puruhūta śátrūñ jyéṣṭhas te śúṣma ihá rātír astu | índrā bhara dákṣiṇenā vásūni pátiḥ síndhūnām asi revátīnām ||
હે પુરુહૂત ઇન્દ્ર! તું શત્રુઓ પર પ્રબળ રીતે વિજયી થાય છે; તારો શૌર્યબળ સર્વથી જ્યેષ્ઠ છે—અહીં તારી દાનવૃત્તિ સ્થિર રહે. હે ઇન્દ્ર, દક્ષિણહસ્તીય શક્તિથી વસુઓ (ધન-સંપત્તિ) લાવી દે; તું રેવતી (સમૃદ્ધિથી ભરપૂર) સિંધુઓનો સ્વામી છે.
प्र । स॒स॒हि॒षे॒ । पु॒रु॒ऽहू॒त॒ । शत्रू॑न् । ज्येष्ठः॑ । ते॒ । शुष्मः॑ । इ॒ह । रा॒तिः । अ॒स्तु॒ । इन्द्र॑ । आ । भ॒र॒ । दक्षि॑णेन । वसू॑नि । पतिः॑ । सिन्धू॑नाम् । अ॒सि॒ । रे॒वती॑नाम् ॥प्र । ससहिषे । पुरुहूत । शत्रून् । ज्येष्ठः । ते । शुष्मः । इह । रातिः । अस्तु । इन्द्र । आ । भर । दक्षिणेन । वसूनि । पतिः । सिन्धूनाम् । असि । रेवतीनाम् ॥pra | sasahiṣe | puru-hūta | śatrūn | jyeṣṭhaḥ | te | śuṣmaḥ | iha | rātiḥ | astu | indra | ā | bhara | dakṣiṇena | vasūni | patiḥ | sindhūnām | asi | revatīnām