Sukta 10.159
उदसौ सूर्यो अगादुदयं मामको भगः । अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः ॥
उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भग॑: । अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ॥
úd asau sū́ryo agād úd ayáṃ māmako bhágaḥ | aháṃ tád vidválā pátim abhy àsākṣi viṣā-sahíḥ ||
ઉપર ઉગ્યો છે તે સૂર્ય; ઉપર ઉગ્યો છે મારો આ ભગ—આનંદનો ભાગ. તે જાણીને, હું—વિષોને જીતનારી—મારા પતિને પોતાના તરફ ખેંચી લીધો છે, સંયોગને ક્ષય કરનારી શક્તિઓ પર વિજયી બની.
उत् । अ॒सौ । सूर्यः॑ । अ॒गा॒त् । उत् । अ॒यम् । मा॒म॒कः । भगः॑ । अ॒हम् । तत् । वि॒द्व॒ला । पति॑म् । अ॒भि । आ॒सा॒क्षि॒ । वि॒ऽस॒स॒हिः ॥उत् । असौ । सूर्यः । अगात् । उत् । अयम् । मामकः । भगः । अहम् । तत् । विद्वला । पतिम् । अभि । आसाक्षि । विससहिः ॥ut | asau | sūryaḥ | agāt | ut | ayam | māmakaḥ | bhagaḥ | aham | tat | vidvalā | patim | abhi | āsākṣi | vi-sasahiḥ