इय॒त्यग्र॑ आसीन्म॒खस्य॑ ते॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे
iyáty ágre āsīn makhásya te ’dyá śíro rādhiyāsaṃ devayájane pṛthivyā́ḥ | makhā́ya tvā makhásya tvā śī́rṣṇe
D’une telle mesure, au commencement, était Makha ; aujourd’hui je veux établir avec succès pour toi sa tête sur la Terre, au lieu du sacrifice pour les dieux. Pour Makha — toi ; pour la tête de Makha — toi !
इयति । अग्रे । आसीत् । मखस्य । ते । अद्य । शिरः । राध्यासम् । देव-यजने । पृथिव्याः । मखाय । त्वा । मखस्य । त्वा । शीर्ष्णे