देव्यो॑ वम्र्यो भू॒तस्य॑ प्रथम॒जा म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे
devyò vamryò bhū́tasya prathamajā́ makhásya vo ’dyá śíro rādhiyāsaṃ devayájane pṛthivyā́ḥ | makhā́ya tvā makhásya tvā śī́rṣṇe
Ô (mottes) divines du fourmilière, premières-nées de l’Être, aujourd’hui je veux vous établir avec succès comme la tête de Makha sur la Terre, au lieu du sacrifice pour les dieux. Pour Makha — toi ; pour la tête de Makha — toi !
देव्यः । वम्र्यः । भूतस्य । प्रथम-जा । मखस्य । वः । अद्य । शिरः । राध्यासम् । देव-यजने । पृथिव्याः । मखाय । त्वा । मखस्य । त्वा । शीर्ष्णे