सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः
sumitriyā́ na ā́pa óṣadhayaḥ santu durmitriyā́s tásmai santu yó ’smā́n dvéṣṭi yáṃ ca vayáṃ dvíṣmaḥ
Que les Eaux et les Plantes soient pour nous d’amicale bienveillance ; mais qu’elles soient d’amitié funeste pour celui qui nous hait, et pour celui que, à notre tour, nous haïssons.
सु-मित्रियाः । नः । आपः । ओषधयः । सन्तु । दुर्-मित्रियाः । तस्मै । सन्तु । यः । अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः