अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शं च॑ नस्कृधि । क्रत्वे॒ दक्षा॑य नो हिनु॒ प्र ण॒ आयू॑ᳪषि तारिषः
ánvid anumate tváṃ mányāsai śáṃ ca nas kṛdhi | krátve dákṣāya no hinu prá ṇa ā́yūṃṣi tāriṣaḥ ||
En nous suivant, ô Anumatī, veuille approuver; et procure-nous le bien. Pour notre œuvre sacrificielle, pour notre habileté rituelle (dakṣa), pousse-nous; et puisse-tu faire passer nos vies en avant, en sûreté.
अनु-इत् । अनुमते । त्वम् । मन्यासै । शम् । च । नः । कृधि । क्रत्वे । दक्षाय । नः । हिनु । प्र । नः । आयूंषि । तारिषः ।