पूष॒न् तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न । स्तो॒तार॑स्त इ॒ह स्म॑सि
pū́ṣan táva vraté vayáṁ ná riṣyema kádā caná | stótāras te ihá smasi
Ô Pūṣan, dans ton ordonnance puissions-nous ne jamais subir de mal en aucun temps ; car ici nous sommes tes louangeurs.
पूषन् । तव । व्रते । वयम् । न । रिष्येम । कदा । चन । स्तोतारः । ते । इह । स्मसि