प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्य॒ᳪ शवसा॒नाय॒ साम॑ । येना॑ न॒: पूर्वे॑ पि॒तर॑: पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन्
prá vo mahé mahí námo bharadhvam āṅgū́ṣyaṃ śavasānā́ya sā́ma | yéna naḥ pū́rve pitáraḥ padájñā́ arcánto aṅgíraso gā́ avindan
Offrez au Grand une grande vénération; élevez pour le Puissant, plein de force, un sāman de louange. Par ce même chant, nos anciens pères — les Aṅgirases connaisseurs des traces —, louant, trouvèrent les vaches.
प्र । वः । महे । महि । नमः । भरध्वम् । आङ्गूष्यम् । शवसानाय । साम । येन । नः । पूर्वे । पितरः । पदज्ञाः । अर्चन्तः । अङ्गिरसः । गाः । अविन्दन्