तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वय॑:
tásmād áśvā ajāyanta yé ke cobhayā́dataḥ | gā́vo ha jajñire tásmāt tásmāj jātā́ ajāváyaḥ
De Lui naquirent les chevaux — tous, quels qu’ils soient, aux deux dents; de Lui, en vérité, furent engendrées les vaches; de Lui, de Lui naquirent les chèvres et les brebis.
तस्मात् । अश्वाः । अजायन्त । ये । के । च । उभयादतः । गावः । ह । जज्ञिरे । तस्मात् । तस्मात् । जाताः । अज-अवयः