आ ग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम् । अग्ने॑ सम्राड॒भि द्यु॒म्नम॒भि सह॒ आ य॑च्छस्व
ā́ ganma viśvávedasam asmábhyaṃ vasuvíttamam | ágne samrā́ḍ abhí dyumnám abhí sáha ā́ yacchasva ||
Nous sommes venus ici vers l’Omniscient, vers le meilleur dispensateur de richesses. Ô Agni, souverain roi, accorde-nous la gloire, accorde-nous la force.
आ । गन्म । विश्ववेदसम् । अस्मभ्यम् । वसुवित्तमम् । अग्ने । सम्राट् । अभि । द्युम्नम् । अभि । सहः । आ । यच्छस्व ।