स्वा॒दु॒ष॒ᳪसद॑: पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रित॒: शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः
svādu-ṣaṃsádaḥ pítaro vayo-dhā́ḥ kṛ́cchre-śritáḥ śaktī́vanto gabhīrā́ḥ | citrá-senā íṣu-balā amṛ́dhrāḥ sato-vī́rā urávo vrāta-sāhā́ḥ ||
Doux est le siège des Pères, dispensateurs de force vitale; dans l’épreuve demeurant, puissants et profonds. Aux armées merveilleuses, forts de traits, infaillibles; avec de vrais héros, d’ample portée, vainqueurs de la troupe.
स्वा॒दु॒-ष॒म्॒सदः॑ । पि॒तरः॑ । व॒यः॒-धाः । कृ॑च्छ्रे॒-श्रितः॑ । शक्ती॑वन्तः । ग॒भी॒राः । चि॒त्र-से॑नाः । इषु॑-बलाः । अमृ॑ध्राः । स॒तो-वी॑राः । उ॒रवः॑ । व्रात॑-सा॒हाः ।