होता॑ यक्षदु॒षे इन्द्र॑स्य धे॒नू सु॒दुघे॑ मा॒तरा॑ म॒ही । स॒वा॒तरौ॒ न तेज॑सा व॒त्समिन्द्र॑मवर्धतां वी॒तामाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣad uṣé índrasya dhenū́ su·dughé mātárā mahī́ | savātarau ná téjasā vatsám índram avardhatāṃ vītā́m ā́jyasya hótar yája
Que le Hotṛ offre à Uṣas (l’Aurore) : les deux grandes Mères, les vaches d’Indra aux riches traites. Telles deux stimulatrices par leur éclat, qu’elles fassent croître Indra comme un veau ; qu’elles prennent part à l’ā́jya. Ô Hotṛ, sacrifie !
होता । यक्षत् । उषे इति । इन्द्रस्य । धेनू इति । सु-दुघे इति । मातरा । मही इति । सवातरौ इति । न । तेजसा । वत्सम् । इन्द्रम् । अवर्धताम् । वीताम् । आज्यस्य । होतः । यज ।