आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । ततो॑ दे॒वाना॒ᳪ सम॑वर्त॒तासु॒रेक॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
ā́po ha yád bṛhatī́r víśvam ā́yan gárbhaṃ dádhānā janáyantīr agním | táto devā́nāṃ sám avartatā́sur ékaḥ kásmai devā́ya havíṣā vidhema
Lorsque, en vérité, les Eaux, les puissantes, pénétrèrent le Tout, portant en elles le germe et engendrant Agni, alors d’elles advint la multitude des dieux : à quel Dieu, à l’Unique, offrirons-nous le culte avec l’oblation ?
आपः । ह । यत् । बृहतीः । विश्वम् । आयन् । गर्भम् । दधानाः । जनयन्तीः । अग्निम् । ततः । देवानाम् । सम्-अवर्तत । आसु । एकः । कस्मै । देवाय । हविषा । विधेम