इन्द्र॑स्य क्री॒डोऽदि॑त्यै पाज॒स्यं॒ दि॒शां ज॒त्रवोऽदि॑त्यै भ॒सज्जी॒मूता॑न् हृदयौप॒शेना॒न्तरि॑क्षं पुरी॒तता॒ नभ॑ उद॒र्ये॒ण चक्रवा॒कौ मत॑स्नाभ्यां॒ दिवं॑ वृ॒क्काभ्यां॑ गि॒रीन् प्ला॒शिभि॒रुप॑लान् प्ली॒ह्ना व॒ल्मीका॑न् क्लो॒मभि॑र्ग्लौ॒भिर्गुल्मा॑न् हि॒राभि॒: स्रव॑न्तीर्ह्र॒दान् कु॒क्षिभ्या॑ᳪ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना
índrasya krīḍó ’dityai pājasyáṃ diśā́ṃ jatrávo ’dityai bhasáj jīmūtā́n hṛdayaupaśénāntárikṣaṃ purītatā́ nábha udaryèṇa cakravākáu matásnābhyāṃ dívam vṛkkā́bhyāṃ girī́n plāśíbhir úpalān plīhnā́ valmīkā́n klómabhir gláubhir gúlmān hirā́bhiḥ srávantīr hradā́n kúṣibhyā́ṃ samudrám udáreṇa vaiśvānaráṃ bhásmanā
À Indra appartient le jeu, la réjouissance ; à Aditi la vigueur (pājas) ; à Aditi les clavicules des directions. L’enveloppe du cœur, ce sont les nuages de pluie ; le péritoine, l’espace intermédiaire ; le nombril, le ciel ; par le ventre, la paire des cakravāka ; par les reins, le ciel ; par les côtes, les montagnes ; par les flancs, les rochers ; par la rate, les fourmilières ; par les poumons et leurs lobes, les fourrés ; par les veines, les eaux courantes, les étangs ; par les côtés, l’océan ; par le ventre, Vaiśvānara ; par la cendre, ce qui est cendre.
इन्द्र॑स्य । क्री॒डः । अदि॑त्यै । पाज॒स्य॑म् । दि॒शाम् । ज॒त्रवः॑ । अदि॑त्यै । भ॒सत् । जी॒मूता॑न् । हृ॒द॒य॒-औ॒प॒शेना॑ । अ॒न्तरि॑क्षम् । पु॒री॒तता॑ । नभः॑ । उ॒द॒र्ये॑ण । च॒क्र॒वा॒कौ । मत॑स्नाभ्याम् । दिव॑म् । वृ॒क्काभ्या॑म् । गि॒रीन् । प्ला॒शिभिः॑ । उप॑लान् । प्ली॒ह्ना । व॒ल्मीका॑न् । क्लो॒मभिः॑ । ग्लौ॒भिः । गुल्मा॑न् । हि॒राभिः॑ । स्रव॑न्तीः । ह्र॒दान् । कु॒क्षिभ्या॑म् । समु॒द्रम् । उ॒दरे॑ण । वै॒श्वा॒न॒रम् । भस्म॑ना