भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः । स्थि॒रैरङ्गै॑स्तुष्टु॒वाᳪस॑स्त॒नूभि॒र्व्य॒शेमहि दे॒वहि॑तं॒ यदायु॑:
bhadráṁ kárṇebhiḥ śṛṇuyāma devā́ bhadráṁ paśyemā́kṣabhir yajatrāḥ | sthiráir áṅgais tuṣṭuvā́ṁsas tanū́bhir vyáśemahi deváhitaṁ yád ā́yuḥ
Puissions-nous, par nos oreilles, entendre l’auspicieux, ô Dieux; puissions-nous, par nos yeux, voir l’auspicieux, ô dignes d’adoration. Avec des membres fermes, louant de nos corps, puissions-nous atteindre la durée de vie que les Dieux ont établie.
भ॒द्रम् । कर्णे॑भिः । शृ॒णु॒या॒म॒ । दे॒वाः । भ॒द्रम् । प॒श्ये॒म॒ । अ॒क्षभिः॑ । य॒ज॒त्राः । स्थि॒रैः । अङ्गैः॑ । तु॒ष्टु॒वाᳪसः॑ । त॒नूभिः॑ । वि॒ । अ॒शे॒म॒हि॒ । दे॒व-हि॑तम् । यत् । आयुः॑