यस्म्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रᳪ र॒सया॑ स॒हाहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
yásyemé himávanto mahitvá yásya samudráṃ rasáyā sahā́huḥ | yásyemā́ḥ pradíśo yásya bāhū́ kásmai devā́ya havíṣā vidhema
Dont la grandeur est celle de ces montagnes neigeuses ; dont l’océan, avec sa sève, porte ce nom ; dont sont ces régions, dont sont les bras (qui les embrassent) — à quel dieu offrirons-nous le culte avec l’oblation ?
यस्य॑ । इ॒मे । हि॒मव॑न्तः । म॒हि॒त्वा । यस्य॑ । स॒मु॒द्रम् । र॒सया॑ । स॒ह । आ॒हुः । यस्य॑ । इ॒माः । प्र॒दिशः॑ । यस्य॑ । बा॒हू । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म