ख॒ङ्गो वै॑श्वदे॒वः श्वा कृ॒ष्णः क॒र्णो ग॑र्द॒भस्त॒रक्षु॒स्ते रक्ष॑सा॒मिन्द्रा॑य सूक॒रः सि॒ᳪहो मा॑रु॒त: कृ॑कला॒सः पिप्प॑का श॒कुनि॒स्ते श॑र॒व्या॒यै॒ विश्वे॑षां दे॒वानां॑ पृष॒तः
khaṅgó vaiśvadeváḥ śvā́ kṛṣṇáḥ karṇó gardabhás tarakṣúste rákṣasām índrāya sūkaráḥ siṃhó mārutáḥ kṛkalā́saḥ pippakā́ śakuníste śaravyā́yai víśveṣāṁ devā́nāṁ pṛṣatáḥ
Le Khaṅga est pour les Tous-les-Dieux ; le chien noir, le Karṇa, l’âne et l’hyène sont pour les Rākṣasas ; à Indra appartient le sanglier ; le lion est marutien ; le lézard, la pippakā et l’oiseau sont pour Śaravyā ; pour tous les dieux est (la victime) tachetée.
खङ्गः । वैश्वदेवः । श्वा । कृष्णः । कर्णः । गर्दभः । तरक्षुः । ते । रक्षसाम् । इन्द्राय । सूकरः । सिंहः । मारुतः । कृकलासः । पिप्पकाः । शकुनिः । ते । शरव्यायै । विश्वेषाम् । देवानाम् । पृषतः