यद्वातो॑ अ॒पो अ॑गनीगन्प्रि॒यामिन्द्र॑स्य त॒न्व॒म् । ए॒तᳪ स्तो॑तर॒नेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि नः
yád vā́to apó aganīgan priyā́m índrasya tanvàm | etáṃ stotaranéna pathā́ púnar áśvam ā́vartayāsi naḥ
Lorsque le Vent conduisit les Eaux, chères comme le propre corps d’Indra,—par ce chemin de louange tu nous ramènes de nouveau le cheval.
यत् । वातः॑ । अ॒पः । अ॒ग॒नी॒ग॒न् । प्रि॒याम् । इन्द्र॑स्य । त॒न्व॑म् । ए॒तम् । स्तो॒त॒र॒नेन॑ । प॒था । पुनः॑ । अश्व॑म् । आ॒व॒र्त॒य॒सि॒ । नः