इ॒यं वेदि॒: परो॒ अन्त॑: पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभि॑: । अ॒यᳪ सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म
iyáṃ vedíḥ paró ántaḥ pṛthivyā́ ayáṃ yajñó bhúvanasya nā́bhiḥ | ayáṃ sómo vṛ́ṣṇo áśvasya réto bráhmāyáṃ vā́caḥ parámáṃ vyòma ||
Cet autel est l’extrémité la plus lointaine de la terre ; ce sacrifice est le nombril du monde. Ce Soma est la semence du Cheval vigoureux ; ce Brahman est le plus haut ciel de la Parole.
इयम् । वेदिः । परः । अन्तः । पृथिव्याः । अयम् । यज्ञः । भुवनस्य । नाभिः । अयम् । सोमः । वृष्णः । अश्वस्य । रेतः । ब्रह्म । अयम् । वाचः । परम् । व्योम