वेदा॒हम॒स्य भुव॑नस्य॒ नाभिं॒ वेद॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । वेद॒ सूर्य॑स्य बृह॒तो ज॒नित्र॒मथो॑ वेद च॒न्द्रम॑सं यतो॒जाः
vḗdāhám asyá bhúvanasya nā́bhiṃ vḗda dyā́vā-pṛthivī́ antárikṣam | vḗda sū́ryasya bṛható jánitram átho vḗda candrám̐saṃ yató-jāḥ ||
Je connais le nombril de ce monde ; je connais le Ciel et la Terre, je connais l’espace intermédiaire. Je connais le lieu de naissance du grand Soleil ; et je connais aussi la Lune, de quelle source elle naît.
वेद । अहम् । अस्य । भुवनस्य । नाभिम् । वेद । द्यावापृथिवी इति । अन्तरिक्षम् । वेद । सूर्यस्य । बृहतः । जनित्रम् । अथो इति । वेद । चन्द्रमसम् । यतः-जाः