कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ उक्तिं॒ यज॑न्ति
kuvíd aṅgá yávamanto yávaṃ cid yáthā dā́nty anupū́rvaṃ viyū́ya | ihéháiṣāṃ kṛṇuhi bhójanāni yé barhíṣo náma uktíṃ yájanti
Se peut-il que ceux qui ont de l’orge la répartissent vraiment — comme les hommes donnent l’orge — selon la juste succession, après l’avoir divisée l’un après l’autre? Ici, oui ici, prépare pour eux des parts de nourriture, pour ceux qui, au Barhis, avec révérence et louange proférée, sacrifient.
कु॒विद्-अ॒ङ्ग । यव॑-मन्॒तः । यव॑म् । चि॒त् । यथा॑ । दान्ति॑ । अनु॒-पू॒र्वम् । वि॒-यूय॑ । इ॒ह-इ॒ह । ए॒षाम् । कृणुहि । भोज॑नानि । ये । ब॒र्हिषः । नमः । उक्तिम् । यज॑न्ति ।