ग॒णानां॑ त्वा ग॒णप॑तिᳪ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिᳪ हवामहे नि॒धीनां॑ त्वा॑ निधि॒पति॑ᳪ हवामहे वसो मम । आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम्
gaṇā́nāṃ tvā gaṇápatim havāmahe priyā́nāṃ tvā priyápatim havāmahe nidhī́nāṃ tvā nidhípatim havāmahe vaso mama | ā́ham ajāni garbhadhámā tvám ajāsi garbhadhám ||
Toi, comme Seigneur des troupes (Gaṇapati), nous t’invoquons pour les troupes ; toi, comme Seigneur de ce qui est cher, nous t’invoquons pour ce qui est cher ; toi, comme Seigneur des trésors, nous t’invoquons pour les trésors — ô Vasu, sois mien. J’ai connu le porteur du sein ; toi, tu as engendré le porteur du sein.
गणानाम् । त्वा । गणपतिम् । हवामहे । प्रियाणाम् । त्वा । प्रियपतिम् । हवामहे । निधीनाम् । त्वा । निधिपतिम् । हवामहे । वसो । मम । आ । अहम् । अजानि । गर्भधम् । आ । त्वम् । अजासि । गर्भधम् ।