नक्ष॑त्रेभ्य॒: स्वाहा॑ नक्ष॒त्रिये॑भ्य॒: स्वाहा॑ ऽहोरा॒त्रेभ्य॒: स्वाहा॑ ऽर्धमा॒सेभ्य॒: स्वाहा॒ मासे॑भ्य॒: स्वाहा॑ ऋ॒तुभ्य॒: स्वाहा॑ ऽऽर्त॒वेभ्य॒: स्वाहा॑ संवत्स॒राय॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ᳪ स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॑ र॒श्मिभ्य॒: स्वाहा॒ वसु॑भ्य॒: स्वाहा॑ रु॒द्रेभ्य॒: स्वाहा॑ ऽऽदि॒त्येभ्य॒: स्वाहा॑ म॒रुद्भ्य॒: स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्य॒: स्वाहा॒ मूले॑भ्य॒: स्वाहा॒ शाखा॑भ्य॒: स्वाहा॒ वन॒स्पति॑भ्य॒: स्वाहा॒ पुष्पे॑भ्य॒: स्वाहा॒ फले॑भ्य॒: स्वाहौष॑धीभ्य॒: स्वाहा॑
nákṣatrebhyaḥ svāhā́ nakṣatríyebhyaḥ svāhā́ ’horātrébhyaḥ svāhā́ ’rdhamā́sebhyaḥ svāhā́ mā́sebhyaḥ svāhā́ ṛtúbhyaḥ svāhā́ ’ārtavébhyaḥ svāhā́ saṃvatsarā́ya svāhā́ dyā́vā-pṛthivī́bhyāṃ svāhā́ candrā́ya svāhā́ sū́ryāya svāhā́ raśmíbhyaḥ svāhā́ vásubhyaḥ svāhā́ rudrébhyaḥ svāhā́ ’ādityébhyaḥ svāhā́ marúdbhyaḥ svāhā́ víśvebhyo devébhyaḥ svāhā́ mū́lebhyaḥ svāhā́ śā́khābhyaḥ svāhā́ vanaspátibhyaḥ svāhā́ púṣpebhyaḥ svāhā́ phálebhyaḥ svāhā́ ’óṣadhībhyaḥ svāhā́
Svāhā aux constellations; Svāhā aux puissances stellaires. Svāhā aux jours et aux nuits; Svāhā aux demi-mois; Svāhā aux mois; Svāhā aux saisons; Svāhā aux puissances saisonnières; Svāhā à l’année. Svāhā au Ciel et à la Terre; Svāhā à la Lune; Svāhā au Soleil; Svāhā aux rayons; Svāhā aux Vasus; Svāhā aux Rudras; Svāhā aux Ādityas; Svāhā aux Maruts; Svāhā à tous les dieux. Svāhā aux racines; Svāhā aux branches; Svāhā aux seigneurs de la forêt (arbres); Svāhā aux fleurs; Svāhā aux fruits; Svāhā aux plantes médicinales (oṣadhi).
नक्षत्रेभ्यः । स्वाहा । नक्षत्रियेभ्यः । स्वाहा । अहोरात्रेभ्यः । स्वाहा । अर्धमासेभ्यः । स्वाहा । मासेभ्यः । स्वाहा । ऋतुभ्यः । स्वाहा । आर्तवेभ्यः । स्वाहा । संवत्सराय । स्वाहा । द्यावापृथिवीभ्याम् । स्वाहा । चन्द्राय । स्वाहा । सूर्याय । स्वाहा । रश्मिभ्यः । स्वाहा । वसुभ्यः । स्वाहा । रुद्रेभ्यः । स्वाहा । आदित्येभ्यः । स्वाहा । मरुद्भ्यः । स्वाहा । विश्वेभ्यः । देवेभ्यः । स्वाहा । मूलेभ्यः । स्वाहा । शाखाभ्यः । स्वाहा । वनस्पतिभ्यः । स्वाहा । पुष्पेभ्यः । स्वाहा । फलेभ्यः । स्वाहा । ओषधीभ्यः । स्वाहा ।