यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नय॒ चारु॑म॒ग्नये॑
yásminn áśvāsa ṛṣabhā́sa ukṣáṇo vaśā́ meṣā́ avasṛṣṭā́sa ā́hutāḥ | kīlālápe sómapṛṣṭhāya vedháse hṛdā́ matíṃ janaya cā́rum agnáye
Là où chevaux, taureaux, bœufs, vaches vaśā et béliers, relâchés, sont offerts en oblation : dans le mélange de kīlāla — à Agni, adossé à Soma, au sage ordonnateur — engendre par le cœur une belle intention.
यस्मिन् । अश्वासः । ऋषभासः । उक्षणः । वशाः । मेषाः । अवसृष्टासः । आहुताः । कीलालपे । सोमपृष्ठाय । वेधसे । हृदा । मतिम् । जनय । चारुम् । अग्नये