दैव्या॒ मिमा॑ना॒ मनु॑षः पुरु॒त्रा होता॑रा॒विन्द्रं॑ प्रथ॒मा सु॒वाचा॑ । मू॒र्धन् य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना प्रा॒चीनं॒ ज्योति॑र्ह॒विषा॑ वृधातः
daivyā́ mimānā mánuṣaḥ purutrā́ hotā́rāv índraṃ prathamā́ suvā́cā | mū́rdhan yajñásya mádhunā dádhānā prācī́naṃ jyótir havíṣā vṛdhātaḥ ||
Les deux Hotṛ divins, mesurant pour l’homme en maints lieux, invoquent d’abord Indra, à la belle parole. Déposant la douceur sur la tête du sacrifice, qu’ils accroissent, par le havis, la lumière tournée vers l’Orient.
दैव्यौ । मिमाना । मनुषः । पुरुत्रा । होतारौ । इन्द्रम् । प्रथमा । सुवाचा । मूर्धन् । यज्ञस्य । मधुना । दधानौ । प्राचीनम् । ज्योतिः । हविषा । वृधातः