अ॒भ्या द॑धामि स॒मिध॒मग्ने॑ व्रतपते॒ त्वयि॑ । व्र॒तं च॑ श्र॒द्धां चोपै॑मी॒न्धे त्वा॑ दीक्षि॒तो अ॒हम्
abhí ā dadhāmi samídham agne vratapate tváyi | vratáṃ ca śraddhā́ṃ ca upáimi índhe tvā dīkṣitó ahám
Sur Toi je dépose le bois d’allumage (samidh), ô Agni, seigneur du vœu (vratapati), sur Toi. J’entre dans le vœu (vrata) et dans la śraddhā : je T’allume, moi, le consacré (dīkṣita).
अ॒भि । आ । द॑धामि । स॒मिध॑म् । अग्ने॑ । व्रत-पते॒ । त्वयि॑ । व्र॒तम् । च॑ । श्र॒द्धाम् । च॑ । उप॑-ए॒मि॑ । इ॒न्धे । त्वा॑ । दीक्षि॒तः । अ॒हम्