विश्व॑स्य मू॒र्धन्नधि॑ तिष्ठसि श्रि॒तः स॑मु॒द्रे ते॒ हृद॑यम॒प्स्वायु॑र॒पो द॑त्तोद॒धिं भि॑न्त । दि॒वस्प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑व
víśvasya mū́rdhann ádhi tiṣṭhasi śritáḥ samudré te hṛ́dayam apsv ā́yur ápo datto-dadhíṃ bhínta | divás párjanyā́d antárikṣāt pṛthivyā́s táto no vṛ́ṣṭyā́va
Au sommet du Tout tu te tiens, solidement établi ; dans l’océan est ton cœur, dans les eaux ta vie. Donnez les eaux ; fendez la mer ! Du ciel, de Parjanya, de l’espace intermédiaire, de la terre—de là, apportez-nous la pluie.
विश्वस्य । मूर्धन् । अधि । तिष्ठसि । श्रितः । समुद्रे । ते । हृदयम् । अप्सु । आयुः । अपः । दत्त । उदधिम् । भिन्त । दिवः । पर्जन्यात् । अन्तरिक्षात् । पृथिव्याः । ततः । नः । वृष्ट्या । आव