स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या॒नि च मे द्रोणकल॒शश्च॑ मे॒ ग्रावा॑णश्च मेऽधि॒षव॑णे च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च मे॒ वेदि॑श्च मे ब॒र्हिश्च॑ मेऽवभृ॒तश्च॑ मे स्वगाका॒रश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम्
sru̍caś ca me cama̱sāś ca me vāya̱vyā̱ni ca me droṇakala̱śaś ca me grā̍vāṇaś ca me’dhiṣa̍vaṇe ca me pūta̱bhṛc ca ma ādhava̱nīyaś ca me ve̱diś ca me ba̱rhiś ca me’vabhṛ̱taś ca me svagākā̱raś ca me yajñe̍na kalpantām
Puissent m’être les louches srúc et les coupes camása, les instruments liés à Vāyu, le Droṇa-kalaśa, les pierres de pressurage et le lieu du pressurage, le support du filtre et le support d’égouttage, l’autel et l’herbe sacrée, le bain conclusif et l’appel «svagā» — que tout cela soit dûment ajusté par le Sacrifice.
स्रुचः च मे । चमसाः च मे । वायव्यानि च मे । द्रोण-कलशः च मे । ग्रावाणः च मे । अधिषवणे च मे । पूतभृत् च मे । आधवनीयः च मे । वेदिः च मे । बर्हिः च मे । अवभृतः च मे । स्वगाकारः च मे । यज्ञेन कल्पन्ताम् ।