मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्
mitráś ca me índraś ca me váruṇaś ca me índraś ca me dhātā́ ca me índraś ca me tváṣṭā ca me índraś ca me marútaś ca me índraś ca me víśve ca me devā́ índraś ca me yajñéna kalpantām
Que soient miens Mitra et Indra; que soient miens Varuṇa et Indra; que soient miens Dhātṛ et Indra; que soient miens Tvaṣṭṛ et Indra; que soient miens les Maruts et Indra; que soient miens tous les dieux et Indra: que le Sacrifice (yajña) les dispose pour moi selon le rite.
मि॒त्रः । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । वरुणः । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । धाता । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । त्वष्टा । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । मरुतः । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । विश्वे । च॒ । मे॒ । देवाः । इन्द्रः । च॒ । मे॒ । य॒ज्ञेन॑ । क॒ल्प॒न्ता॒म् ।