इन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानोऽभव॒न्यथेन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मा॒नोऽभ॑वन् । ए॒वमि॒मं यज॑मानं॒ दैवी॑श्च॒ विशो॑ मानु॒षीश्चानु॑वर्त्मानो भवन्तु
índraṁ daivī́r víśo marúto'́nuvartmāno'bhavan yáthéndraṁ daivī́r víśo marúto'́nuvartmāno'bhavan | evám imáṁ yájamānaṁ daivī́ś ca víśo mānuṣī́ś cā́nuvartmāno bhavantu ||
À la suite d’Indra, les clans divins — les Maruts — suivirent sa trace ; de même qu’à la suite d’Indra, les clans divins — les Maruts — suivirent sa trace, ainsi que les clans divins et les clans humains suivent la trace de ce sacrifiant.
इन्द्रम् । दैवीः । विशः । मरुतः । अनु-वर्त्मानः । अभवन् । यथा । इन्द्रम् । दैवीः । विशः । मरुतः । अनु-वर्त्मानः । अभवन् । एवम् । इमम् । यजमानम् । दैवीः च । विशः । मानुषीः च । अनु-वर्त्मानः । भवन्तु ।