आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑मा सप्तद॒शो ध॒रुण॑ एकवि॒ᳪशः प्रतू॑र्तिरष्टाद॒शस्तपो॑ नवद॒शो॒ ऽभीव॒र्त्त: स॑वि॒ᳪशो वर्चो॑ द्वावि॒ᳪशः स॒म्भर॑णस्त्रयोवि॒ᳪशो योनि॑श्चतुर्वि॒ᳪशो गर्भा॑: पञ्चवि॒ᳪश ओज॑स्त्रिण॒वः क्रतु॑रेकत्रि॒ᳪशः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒ᳪशो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒ᳪशो नाक॑: षट्त्रि॒ᳪशो वि॑व॒र्तो॒ऽष्टाचत्वारि॒ᳪशो ध॒र्त्रं च॑तुष्टो॒मः
āśús trivṛ́d bhā́ntaḥ pañcadaśó vyòmā saptadaśó dharuṇá ekaviṃśáḥ pratū́rtir aṣṭādaśás tápo navadaśó ’bhīvarttáḥ saviṃśó várcō dvāviṃśáḥ sambháraṇas trayoviṃśó yóniś caturviṃśó gárbhāḥ pañcaviṃśá ójas triṇaváḥ krátur ekatriṃśáḥ pratiṣṭhā́ trayastriṃśó bradhnásya viṣṭápaṃ catustriṃśó nā́kaḥ ṣaṭtriṃśó vivartó ’ṣṭācātvāriṃśó dhártraṃ catuṣṭómaḥ
Rapide est le Trivṛt ; resplendissant est le Pañcadaśa ; la voûte du ciel est le Saptadaśa ; le soutien est l’Ekaviṃśa ; l’élan qui pousse en avant est l’Aṣṭādaśa ; l’ardeur du tapas est le Navadaśa ; la victoire qui surmonte est le Saviṃśa ; l’éclat est le Dvāviṃśa ; le rassemblement est le Trayoviṃśa ; le sein est le Caturviṃśa ; les germes sont le Pañcaviṃśa ; la vigueur (ojas) est le Triṇava ; la volonté sacrée (kratu) est l’Ekatrimśa ; l’assise ferme (pratiṣṭhā) est le Trayastrimśa ; le séjour de Bradhna est le Catustriṃśa ; le domaine céleste (nāka) est le Ṣaṭtriṃśa ; la révolution (vivarta) est l’Aṣṭācatvāriṃśa ; le porteur, l’appui (dhārtr̥) est le Catuṣṭoma.
आशुः । त्रिवृत् । भान्तः । पञ्चदशः । व्योमा । सप्तदशः । धरुणः । एकविंशः । प्रतूर्तिः । अष्टादशः । तपः । नवदशः । अभीवर्त्तः । सविंशः । वर्चः । द्वाविंशः । सम्भरणः । त्रयोविंशः । योनिः । चतुर्विंशः । गर्भाः । पञ्चविंशः । ओजः । त्रिणवः । क्रतुः । एकत्रिंशः । प्रतिष्ठा । त्रयस्त्रिंशः । ब्रध्नस्य । विष्टपम् । चतुस्त्रिंशः । नाकः । षट्त्रिंशः । विवर्तः । अष्टाचत्वारिंशः । धर्त्रम् । चतुष्टोमः ।