ओष॑धय॒: सम॑वदन्त॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तᳪ रा॑जन् पारयामसि
oṣádhayaḥ sám avadanta sómena sahá rājñā́ | yásmai kṛṇóti brāhmaṇás táṃ rājan pārayāmasi ||
Les plantes médicinales parlèrent d’une seule voix avec le roi Soma : «Celui pour qui œuvre le brahmane — celui-là, ô Roi, nous le ferons passer sain et sauf.»
ओषधयः । सम्-अवदन्त । सोमेन । सह । राज्ञा । यस्मै । कृणोति । ब्राह्मणः । तम् । राजन् । पारयामसि ।