नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ᳪ समी॒ची । द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः
náktōṣásā sámanasā vírūpe dhā́payete śíśum ékaṃ samīcī́ | dyā́vākṣā́mā rukmó antár ví bhāti devā́ agníṃ dhārayann draviṇodā́ḥ
La Nuit et l’Aurore, d’un même dessein quoique de formes diverses, allaitent ensemble un seul enfant. Entre le Ciel et la Terre, le Doré resplendit au-dedans; les Dieux, dispensateurs de richesses, ont soutenu Agni.
नक्तो॒षासा॑ । सम॑नसा । विरू॑पे । धा॒पये॑ते । शिशु॑म् । एक॑म् । स॒मी॒ची इति॑ । द्यावा॒-क्षामा॑ । रु॒क्मः । अ॒न्तः । वि । भा॑ति । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णो॒-दाः ।