अह॑रह॒रप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै । रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम
áhar-ahar áprayāvaṃ bháranto’śvā́ya iva tíṣṭhate ghāsám asmai | rā́yas póṣeṇa sámiṣā́ madánto’gne mā́ te prátiveśā riṣāma
Jour après jour, apportant un service infaillible, nous nous tenons auprès de lui comme auprès d’un cheval, avec du fourrage pour lui. Nous réjouissant de l’accroissement des richesses, avec le bois de feu pour sa part — ô Agni, que tes voisins ne te fassent aucun tort.
अहर्-अहर् । अप्रयावम् । भरन्तः । अश्वाय । इव । तिष्ठते । घासम् । अस्मै । रायः-पोषेण । सम्-इषा । मदन्तः । अग्ने । मा । ते । प्रति-वेशाः । रिषाम