Sukta 8.17
पृदाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः । भूर्णिमश्वं नयत्तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥
पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एक॒: सन्न॒भि भूय॑सः । भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेन्द्रं॒ सोम॑स्य पी॒तये॑ ॥
pṛdā́ku-sānur yajató gavéṣaṇa ékaḥ sánn abhí bhū́yasaḥ | bhūrṇím áśvaṃ nayat tujā́ puró gṛbhéndraṃ sómasya pītáye ||
Que l’unique chercheur, adorant, des Rayons lumineux—Pṛdāku sur la crête—s’avance vers une plénitude plus grande. Que la force rapide mène devant le cheval tourbillonnant; saisis Indra et amène-le ici pour la boisson du Soma.
पृदा॑कुऽसानुः । य॒ज॒तः । गो॒ऽएष॑णः । एकः॑ । सन् । अ॒भि । भूय॑सः । भूर्णिम् । अश्व॑म् । न॒य॒त् । तु॒जा । पु॒रः । गृ॒भा । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥पृदाकुसानुः । यजतः । गोएषणः । एकः । सन् । अभि । भूयसः । भूर्णिम् । अश्वम् । नयत् । तुजा । पुरः । गृभा । इन्द्रम् । सोमस्य । पीतये ॥pṛdāku-sānuḥ | yajataḥ | go--eṣaṇaḥ | ekaḥ | san | abhi | bhūyasaḥ | bhūrṇim | aśvam | nayat | tujā | puraḥ | gṛbhā | indram | somasya | pītaye