Sukta 6.18
अनु त्वाहिघ्ने अध देव देवा मदन्विश्वे कवितमं कवीनाम् । करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥
अनु॒ त्वाहि॑घ्ने॒ अध॑ देव दे॒वा मद॒न्विश्वे॑ क॒वित॑मं कवी॒नाम् । करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना॑य त॒न्वे॑ गृणा॒नः ॥
ánu tvā́highne ádha deva devā́ madán víśve kavitamáṃ kavīnā́m | karó yátra várivo bādhitā́ya divé jánāya tanvé gṛṇānáḥ ||
À ta suite, ô tueur du serpent, les dieux aussi se réjouissent en toi, ô Dieu — toi, le plus voyant des voyants. Tu fais un vaste espace pour celui qu’on presse et qu’on accable, pour le Ciel, pour les peuples, pour l’être incarné, tandis que nous te chantons en louange.
अनु॑ । त्वा॒ । अहि॑ऽघ्ने । अध॑ । दे॒व॒ । दे॒वाः । मद॑न् । विश्वे॑ । क॒विऽत॑मम् । क॒वी॒नाम् । करः॑ । यत्र॑ । वरि॑वः । बा॒धि॒ताय॑ । दि॒वे । जना॑य । त॒न्वे॑ । गृ॒णा॒नः ॥अनु । त्वा । अहिघ्ने । अध । देव । देवाः । मदन् । विश्वे । कवितमम् । कवीनाम् । करः । यत्र । वरिवः । बाधिताय । दिवे । जनाय । तन्वे । गृणानः ॥anu | tvā | ahi-ghne | adha | deva | devāḥ | madan | viśve | kavi-tamam | kavīnām | karaḥ | yatra | varivaḥ | bādhitāya | dive | janāya | tanve | gṛṇānaḥ