Sukta 10.70
आग्ने वह वरुणमिष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् । सीदन्तु बर्हिर्विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् ॥
आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न॒ इन्द्रं॑ दि॒वो म॒रुतो॑ अ॒न्तरि॑क्षात् । सीद॑न्तु ब॒र्हिर्विश्व॒ आ यज॑त्रा॒: स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥
ā́gne vaha váruṇam iṣṭáye na índraṃ divó marúto antárikṣāt | sīdantu bárhir víśva ā́ yajatrā́ḥ svā́hā devā́ amṛ́tā mādayantām ||
Ô Agni, amène-nous Varuṇa pour l’accomplissement du désir; amène Indra du ciel, les Maruts de l’espace intermédiaire. Que tous les dieux dignes du sacrifice s’asseyent sur le barhis; svāhā — que les dieux immortels se réjouissent de l’offrande en nous.
आ । अ॒ग्ने॒ । व॒ह॒ । वरु॑णम् । इ॒ष्टये॑ । नः॒ । इन्द्र॑म् । दि॒वः । म॒रुतः॑ । अ॒न्तरि॑क्षात् । सीद॑न्तु । ब॒र्हिः । विश्वे॑ । आ । यज॑त्राः । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥आ । अग्ने । वह । वरुणम् । इष्टये । नः । इन्द्रम् । दिवः । मरुतः । अन्तरिक्षात् । सीदन्तु । बर्हिः । विश्वे । आ । यजत्राः । स्वाहा । देवाः । अमृताः । मादयन्ताम् ॥ā | agne | vaha | varuṇam | iṣṭaye | naḥ | indram | divaḥ | marutaḥ | antarikṣāt | sīdantu | barhiḥ | viśve | ā | yajatrāḥ | svāhā | devāḥ | amṛtāḥ | mādayantām