Sukta 10.15
त्वमग्न ईळितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी । प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि ॥
त्वम॑ग्न ईळि॒तो जा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी । प्रादा॑: पि॒तृभ्य॑: स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥
tvám agna īḷitó jāta-vedó ’vā́ḍ havyā́ni surabhī́ṇi kṛtvī́ | prā́dāḥ pitṛ́bhyaḥ svadháyā té ákṣann addhí tvaṃ deva práyatā havī́ṃṣi ||
Toi, Agni, loué comme Jātavedas, tu as apporté les offrandes, les rendant parfumées et convenables. Tu les as données aux Pères par la puissance de svadhā ; ils ont mangé — maintenant, toi aussi, ô dieu, consume les offrandes préparées.
त्वम् । अ॒ग्ने॒ । ई॒ळि॒तः । जा॒त॒ऽवे॒दः॒ । अवा॑ट् । ह॒व्यानि॑ । सु॒र॒भीणि॑ । कृ॒त्वी । प्र । अ॒दाः॒ । पि॒तृऽभ्यः॑ । स्व॒धया॑ । ते । अ॒क्ष॒न् । अ॒द्धि । त्वम् । दे॒व॒ । प्रऽय॑ता । ह॒वींषि॑ ॥त्वम् । अग्ने । ईळितः । जातवेदः । अवाट् । हव्यानि । सुरभीणि । कृत्वी । प्र । अदाः । पितृभ्यः । स्वधया । ते । अक्षन् । अद्धि । त्वम् । देव । प्रयता । हवींषि ॥tvam | agne | īḷitaḥ | jāta-vedaḥ | avāṭ | havyāni | surabhīṇi | kṛtvī | pra | adāḥ | p itṛ-bhyaḥ | svadhayā | te | akṣan | addhi | tvam | deva | pra-yatā | havīṃṣi