Sukta 1.24
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः । अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः ॥
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑: । अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयु॒: प्र मो॑षीः ॥
tát tvā yā́mi bráhmaṇā vándamānas tád ā́ śā́ste yájamāno havírbhiḥ | áheḷamāno varuṇéha bodhy úrūśaṃsa mā́ na ā́yuḥ prá moṣīḥ ||
C’est pourquoi je viens à toi, par la puissance de la parole sacrée (brahman), en t’adorant; c’est pourquoi le sacrifiant te supplie par les offrandes. Sans colère, ô Varuṇa, éveille-toi ici; ô largement loué, ne nous ravis pas le souffle vital ni la durée de vie.
तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ । अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस । मा । नः॒ । आयुः॑ । प्र । मो॒षीः॒ ॥तत् । त्वा । यामि । ब्रह्मणा । वन्दमानः । तत् । आ । शास्ते । यजमानः । हविःभिः । अहेळमानः । वरुण । इह । बोधि । उरुशंस । मा । नः । आयुः । प्र । मोषीः ॥tat | tvā | yāmi | brahmaṇā | vandamānaḥ | tat | ā | śāste | yajamānaḥ | haviḥ-bhiḥ | aheḷamānaḥ | varuṇa | iha | bodhi | uru-śaṃsa | mā | naḥ | āyuḥ | pra | moṣīḥ