Sukta 3.54
इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा । पुरंदरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ॥
इन्द्रो॒ विश्वै॑र्वी॒र्यै॒३॒॑: पत्य॑मान उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा । पु॒रं॒द॒रो वृ॑त्र॒हा धृ॒ष्णुषे॑णः सं॒गृभ्या॑ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ॥
índro víśvair vīryáiḥ pátyamāna ubhé ā́ paprau rodasī́ mahitvā́ | puraṃdaró vṛtrahā́ dhṛṣṇu-séṇaḥ saṃgṛ́bhyā na ā́ bharā bhū́ri paśváḥ ||
Indra, asumiendo el señorío con todas sus potencias de heroísmo, ha colmado con su grandeza a ambos, Cielo y Tierra. Rompedor de fortalezas, matador de Vṛtra, con su hueste audaz—reúne y tráenos abundantes rebaños de energías de luz.
इन्द्रः॑ । विश्वैः॑ । वी॒र्यैः॑ । पत्य॑मानः । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । पु॒र॒म्ऽद॒रः । वृ॒त्र॒ऽहा । धृ॒ष्णुऽसे॑णः । स॒म्ऽगृभ्य॑ । नः॒ । आ । भ॒र॒ । भूरि॑ । प॒श्वः ॥इन्द्रः । विश्वैः । वीर्यैः । पत्यमानः । उभे इति । आ । पप्रौ । रोदसी इति । महित्वा । पुरम्दरः । वृत्रहा । धृष्णुसेणः । सम्गृभ्य । नः । आ । भर । भूरि । पश्वः ॥indraḥ | viśvaiḥ | vīryaiḥ | patyamānaḥ | ubhe iti | ā | paprau | rodasī iti | mahi-tvā | puram-daraḥ | vṛtra-hā | dhṛṣṇu-seṇaḥ | sam-gṛbhya | naḥ | ā | bhara | bhūri | paśvaḥ