Sukta 10.99
कं नश्चित्रमिषण्यसि चिकित्वान्पृथुग्मानं वाश्रं वावृधध्यै । कत्तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत् ॥
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ । कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥
káṃ naś citrám iṣaṇyasi cikitvā́n pṛthugmā́naṃ vāśráṃ vāvṛdhádhyai | kát tásya dā́tu śávaso vyùṣṭau tákṣad vájraṃ vṛtráturam ápinvat ||
¿Qué prodigio radiante nos impulsas, oh Conocedor, para hacer crecer al de amplio avance, al poderoso? ¿Quién fue el dador de fuerza que, en la ruptura del alba, forjó el vajra y lo lanzó para aplastar a Vṛtra, el Encubridor?
कम् । नः॒ । चि॒त्रम् । इ॒ष॒ण्य॒सि॒ । चि॒कि॒त्वान् । पृ॒थु॒ऽग्मान॑म् । वा॒श्रम् । व॒वृ॒धध्यै॑ । कत् । तस्य॑ । दातु॑ । शव॑सः । विऽउ॑ष्टौ । तक्ष॑त् । वज्र॑म् । वृ॒त्र॒ऽतुर॑म् । अपि॑न्वत् ॥कम् । नः । चित्रम् । इषण्यसि । चिकित्वान् । पृथुग्मानम् । वाश्रम् । ववृधध्यै । कत् । तस्य । दातु । शवसः । विउष्टौ । तक्षत् । वज्रम् । वृत्रतुरम् । अपिन्वत् ॥kam | naḥ | citram | iṣaṇyasi | cikitvān | pṛthu-gmānam | vāśram | vavṛdhadhyai | kat | tasya | dātu | śavasaḥ | vi-uṣṭau | takṣat | vajram | vṛtra-turam | apinvat